॥ श्री हनुमत स्तवन ॥
प्रनवउँ पवन कुमार खेल बन
पावक ज्ञान घन ।
जासु हृदय आगार बसहिं राम
सर चाप धर ॥
अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं
वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥
गोष्पदीकृतवारीशं
मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं
बन्देनिलात्मजम् ॥
अंजनानन्दनम् वीरम्
जानकीशोकनाशनम् ।
कपीशमक्षहन्तारम् बन्दे
लङ्काभयंकरम् ॥
उल्लङ्घ्य सिन्धोः सलिलं
सलीलम् यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लंका
नमामि तं प्रांजलिरांजनेयम् ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥
आंजनेयमतिपाटलाननं
कांचनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनम
भावयामि पवमाननन्दनम् ॥
यत्र यत्र रगुनाथ कीर्तनं
तत्र तत्र कृतमस्तकाञ्जिलाम ।
वाष्पवारिपरिपूर्णलोचनम्
मारुतिं नमत राक्षसान्तकम् ॥